2026-05-03 04:20:43 by ambuda-bot
This page has not been fully proofread.
५४०
श्रीमद्भगवद्गीताभाष्ये
भक्त्या
न आत्मसमदर्शनम् इह, तस्य वक्ष्यमाणत्वात्
मामभिजानाति' इति । एवंभूतः ज्ञाननिष्ठः, मद्भक्ति
मयि परमेश्वरे भक्ति भजनं पराम् उत्तमां ज्ञानलक्षणां च-
तुर्थी लभते, 'चतुर्विधा भजन्ते माम्' इति हि उक्तम् ॥
तत: ज्ञानलक्षणया-
भक्त्या मामभिजानाति
यावान्यश्चास्मि तत्त्वतः ।
ततो मां तत्त्वतो ज्ञात्वा
विशते तदनन्तरम् ॥ ५५ ॥
भक्त्या माम् अभिजानाति यावान् अहम् उपाधिकृतवि-
स्तरभेदः, यश्च अहम् अस्मि विध्वस्तसर्वोपाधिभेदः उत्तमः
पुरुषः आकाशकल्प:, तं माम् अद्वैतं चैतन्यमात्रैकरसम्
अजरम् अभयम् अनिधनं तत्त्वतः अभिजानाति । तत:
माम् एवं तत्त्वतः ज्ञात्वा विशते तदनन्तरं मामेव ज्ञानान-
न्तरम् । नात्र ज्ञानप्रवेशकिये भिन्ने विवक्षिते 'ज्ञात्वा वि-
शते तदनन्तरम्' इति । किं तर्हि ? फलान्तराभावात् ज्ञान-
मात्रमेव, 'क्षेत्रज्ञं चापि मां विद्धि' इति उक्तत्वात् ॥