Proofing

This page has not been fully proofread.

अष्टादशोऽध्यायः ।
 
५३९
 
रिग्रहम् इन्द्रियमनोगतदोषपरित्यागेऽपि शरीरधारणप्रसङ्गेन
धर्मानुष्ठाननिमित्तेन वा बाह्यः परिग्रहः प्राप्तः, तं च विमु-
च्य परित्यज्य, परमहंसपरिव्राजको भूत्वा, देहजीवनमात्रे -
ऽपि निर्गतममभावः निर्मम:, अत एव शान्त: उपरतः, यः
संहृतहर्षायासः यतिः ज्ञाननिष्ठः ब्रह्मभूयाय ब्रह्मभवनाय
कल्पते समर्थो भवति ॥
 
अनेन क्रमेण --
 
ब्रह्मभूतः प्रसन्नात्मा
 
न शोचति न काङ्क्षति ।
समः सर्वेषु भूतेषु
 
मद्भक्तिं लभते पराम् ॥ ५४ ॥
 
ब्रह्मभूतः ब्रह्मप्राप्तः प्रसन्नात्मा लब्धाध्यात्मप्रसादस्वभावः
न शोचति, किंचित् अर्थवैकल्यम् आत्मनः वैगुण्यं वा
उद्दिश्य न शोचति न संतप्यते ; न काङ्क्षति, न हि अप्रा-
विषयाकाङ्क्षा ब्रह्मविदः उपपद्यते ; अतः ब्रह्मभूतस्य अयं
स्वभावः अनूद्यते— न शोचति न काङ्क्षति इति । 'न हृ-
ष्यति' इति वा पाठान्तरम् । समः सर्वेषु भूतेषु, आत्मौ-
पम्येन सर्वभूतेषु सुखं दुःखं वा सममेव पश्यति इत्यर्थः ।