Proofing

This page has not been fully proofread.

५३८
 
एवम्
 
श्रीमद्भगवद्गीताभाष्ये
 
वाक् च कायश्च मानसं च यतानि संयतानि यस्य ज्ञान-
निष्ठस्य सः ज्ञाननिष्ठः यतिः यतवाक्कायमानसः स्यात्
उपरतसर्वकरणः सन् ध्यानयोगपरः ध्यानम् आत्म-
स्वरूपचिन्तनम्, योगः आत्मविषये एकाप्रीकरणम् तौ
परत्वेन कर्तव्यौ यस्य सः ध्यानयोगपरः नित्यं नित्यप्र-
हणं मन्त्रजपाद्यन्यकर्तव्याभावप्रदर्शनार्थम्, वैराग्यं विरा-
गस्य भावः दृष्टादृष्टेषु विषयेषु वैतृष्ण्यं समुपाश्रितः सम्यक्
उपाश्रितः नित्यमेव इत्यर्थः ॥
 
किंच-
 
अहंकारं बलं दर्प
 
कामं क्रोधं परिग्रहम् ।
विमुच्य निर्ममः शान्तो
 
ब्रह्मभूयाय कल्पते ॥ ५३ ॥
 
अहंकारम् अहंकरणम् अहंकार : देहादिषु तम्, बलं सा-
मर्थ्य कामरागसंयुक्तम् — न इतरत् शरीरादिसामर्थ्य स्वा
भाविकत्वेन तत्त्यागस्य अशक्यत्वात् — दर्प दर्पो नाम हर्षा-
नन्तरभावी धर्मातिक्रमहेतुः 'हृष्टो दृप्यति दृप्तो धर्ममतिका-
मंति' इति स्मरणात् ; तं च कामम् इच्छां क्रोधं द्वेषं प-