2026-05-03 04:20:42 by ambuda-bot
This page has not been fully proofread.
अष्टादशोऽध्यायः ।
शब्दादीन्विषयांस्त्यक्त्वा
रागद्वेषौ व्युदस्य च ॥ ५१ ॥
५३७
बुद्धथा अध्यवसायलक्षणया विशुद्धया मायारहितया
युक्त: संपन्नः, धृत्या धैर्येण आत्मानं कार्यकरणसंघातं नियम्य
च नियमनं कृत्वा वशीकृत्य, शब्दादीन् शब्दः आदिः
ग्रेषां तान् विषयान् त्यक्त्वा, सामर्थ्यात् शरीरस्थितिमात्रहे-
तुभूतान् केवलान् मुक्त्वा ततः अधिकान् सुखार्थान् त्यक्त्वा
इत्यर्थः, शरीरस्थित्यर्थत्वेन प्राप्तेषु रागद्वेषौ व्युदस्य च परि-
त्यज्य च ॥
ततः-
विविक्तसेवी लघ्वाशी
यतवाक्कायमानसः ।
ध्यानयोगपरो नित्यं
वैराग्यं समुपाश्रितः ॥ ५२ ॥
विविक्तसेवी अरण्यनदीपुलिन गिरिगुहादीन् विविक्तान्
देशान् सेवितुं शीलम् अस्य इति विविक्तसेवी, लघ्वाशी
लघ्वशनशील:- विविक्तसेवालघ्वशनयोः निद्रादिदोषनिव-
र्तकत्वेन चित्तप्रसादहेतुत्वात् ग्रहणम् ; यतवाक्कायमानसः