2026-05-03 04:20:41 by ambuda-bot
This page has not been fully proofread.
अष्टादशोऽध्यायः ।
५३५
ब्रह्मणि कर्तव्यम्, न तु ब्रह्मविज्ञाने यत्रः, अत्यन्तप्रसिद्धत्वात् ।
अविद्याकल्पितनामरूपविशेषाकारापहृतबुद्धीनाम् अत्यन्तप्र-
सिद्धं सुविज्ञेयम् आसन्नतरम् आत्मभूतमपि, अप्रसिद्धं दुर्वि-
ज्ञेयम् अतिदूरम् अन्यदिव च प्रतिभाति अविवेकिनाम् ।
वाह्याकारनिवृत्तबुद्धीनां तु लब्धगुर्वात्मप्रसादानां न अतः
परं सुखं सुप्रसिद्धं सुविज्ञेयं स्वासन्नतरम् अस्ति । तथा चो-
क्तम्—' प्रत्यक्षावगमं धर्म्यम्' इत्यादि ॥
केचित्तु पण्डितंमन्याः 'निराकारत्वात् आत्मवस्तु न
उपैति बुद्धिः । अतः दुःसाध्या सम्यग्ज्ञाननिष्ठा' इत्याहु: ।
सत्यम्; एवं गुरुसंप्रदायरहितानाम् अश्रुतवेदान्तानाम् अ-
त्यन्तबहिर्विषयासक्तबुद्धीनां सम्यक्प्रमाणेषु अकृतश्रमाणाम् ।
तद्विपरीतानां तु लौकिकग्राह्यग्राहकद्वैतवस्तुनि सद्बुद्धिः नितरां
दुःसंपादा, आत्मचैतन्यव्यतिरेकेण वस्त्वन्तरस्य अनुप-
लब्धेः, यथा च ' एतत् एवमेव, न अन्यथा' इति अवोचाम ;
उक्तं च भगवता 'यस्यां जाग्रति भूतानि सा निशा पश्यतो
मुनेः' इति । तस्मात् बाह्याकार भेदबुद्धिनिवृत्तिरेव आत्म-
स्वरूपावलम्बनकारणम् । न हि आत्मा नाम कस्यचित्
कदाचित् अप्रसिद्धः प्राप्य: हेयः उपादेयो वा ; अप्रसिद्धे हि
तस्मिन् आत्मनि स्वार्थाः सर्वाः प्रवृत्तयः व्यर्थाः प्रसज्ये-