2026-05-03 04:20:40 by ambuda-bot
This page has not been fully proofread.
५३२
श्रीमद्भगवद्गीताभाष्ये
सः निष्कर्मा तस्य भावः नैष्कर्म्यम्, नैष्कर्म्य च तत् सिद्धिश्च
सा नैष्कर्म्यसिद्धिः, निष्कर्मत्वस्य वा निष्क्रियात्मरूपावस्था-
नलक्षणस्य सिद्धि: निष्पत्तिः, तां नैष्कर्म्यसिद्धिं परमां
प्रकृष्टां कर्मजसिद्धिविलक्षणां सद्योमुक्त्यवस्थानरूपां संन्या-
सन सम्यग्दर्शनेन तत्पूर्वकेण वा सर्वकर्मसंन्यासेन, अधिग-
च्छति प्राप्नोति । तथा च उक्तम्— 'सर्वकर्माणि मनसा
संन्यस्य नैव कुर्वन्न कारयन्नास्ते' इति ॥
पूर्वोक्तेन स्वकर्मानुष्ठानेन ईश्वराभ्यर्चनरूपेण जनितां प्रा-
गुक्तलक्षणां सिद्धिं प्राप्तस्य उत्पन्नात्मविवेकज्ञानस्य केवलात्म-
ज्ञाननिष्ठारूपा नैष्कर्म्यलक्षणा सिद्धिः येन क्रमेण भवति,
तत् वक्तव्यमिति आह—
सिद्धिं प्राप्तो यथा ब्रह्म तथामोति निबोध मे ।
समासेनैव कौन्तेय निष्ठा ज्ञानस्य या परा ॥
सिद्धि प्राप्तः स्वकर्मणा ईश्वरं समभ्यर्च्य तत्प्रसादजां
कायेन्द्रियाणां ज्ञाननिष्ठायोग्यतालक्षणां सिद्धिं प्राप्तः—
सिद्धिं प्राप्तः इति तदनुवादः उत्तरार्थः । किं तत् उत्तरम्,
यदर्थ: अनुवादः इति, उच्यते — यथा येन प्रकारेण ज्ञान-
निष्ठारूपेण ब्रह्म परमात्मानम् आप्नोति, तथा तं प्रकारं ज्ञान-