Proofing

This page has not been fully proofread.

अष्टादशोऽध्यायः
 
५३१
 
अध्यारोपितस्य द्विचन्द्रादेः तिमिरापगमेऽपि शेष: अवति-
ष्ठते । एवं च सति इदं वचनम् उपपन्नम् ' सर्वकर्माणि
मनसा' इत्यादि, 'स्वे स्वे कर्मण्यभिरतः संसिद्धिं लभते
नरः 'स्वकर्मणा तमभ्यर्च्य सिद्धिं विन्दति मानवः '
इति च ॥
 
, "
 
या कर्मजा सिद्धिः उक्ता ज्ञाननिष्ठायोग्यतालक्षणा,
तस्याः फलभूता नैष्कर्म्यसिद्धिः ज्ञाननिष्ठालक्षणा च वक्त-
व्येति श्लोकः आरभ्यते—
 
असक्तबुद्धिः सर्वत्र
 
जितात्मा विगतस्पृहः ।
नैष्कर्म्यसिद्धिं परमां
 
संन्यासेनाधिगच्छति ॥ ४९ ॥
 
असक्तबुद्धिः असक्ता सङ्गरहिता बुद्धिः अन्तःकरणं
यस्य सः असक्तबुद्धिः सर्वत्र पुत्रदारादिषु आसक्तिनिमित्तेषु,
जितात्मा जित: वशीकृतः आत्मा अन्तःकरणं यस्य सः
जितात्मा, विगतस्पृहः विगता स्पृहा तृष्णा देहजीवितभोगेषु
यस्मात् सः विगतस्पृहः, यः एवंभूतः आत्मज्ञः सः नैष्क-
र्म्यसिद्धिं निर्गतानि कर्माणि यस्मात् निष्क्रियब्रह्मात्मसंबोधात्