Proofing

This page has not been fully proofread.

५२६
 
श्रीमद्भगवद्गीताभाष्ये
 
'न हि कश्चित्क्षणमपि अकर्मकृत्तिष्ठति' इति । अत:-
 
सहजं कर्म कौन्तेय
 
सदोषमपि न त्यजेत् ।
सर्वारम्भा हि दोषेण
धूमेनाग्निरिवावृताः ॥ ४८ ॥
 
सहजं सह
 
जन्मनैव उत्पन्नम् । किं तत् ? कर्म कौन्तेय
सदोषमपि त्रिगुणात्मकत्वात् न त्यजेत् । सर्वारम्भाः आर-
भ्यन्त इति आरम्भाः, सर्वकर्माणि इत्येतत्; प्रकरणात् ये
केचित् आरम्भाः स्वधर्माः परधर्माश्च ते सर्वे हि यस्मात् --
त्रिगुणात्मकत्वम् अत्र हेतुः — त्रिगुणात्मकत्वात् दोपेण
धूमेन सहजेन अग्निरिव, आवृताः । सहजस्य कर्मण:
स्वधर्माख्यस्य परित्यागेन परधर्मानुष्ठानेऽपि दोषात् नैव
मुच्यते ; भयावहश्च परधर्मः । न च शक्यते अशेषतः
त्यक्तुम् अज्ञेन कर्म यतः, तस्मात् न त्यजेत् इत्यर्थः ॥
 
किम् अशेषतः त्यक्तुम् अशक्यं कर्म इति न त्यजेत् ?
किं वा सहजस्य कर्मणः त्यागे दोषो भवतीति ? किं च अत: ?
यदि तावत् अशेषतः त्यक्तुम् अशक्यम् इति न त्याज्यं
सहजं कर्म, एवं तर्हि अशेषत: त्यागे गुण एव स्यादिति