2026-05-03 04:20:37 by ambuda-bot
This page has not been fully proofread.
अष्टादशोऽध्यायः ।
५२५
यतः यस्मात् प्रवृत्तिः उत्पत्ति: चेष्टा वा यस्मात् अन्त-
र्यामिणः ईश्वरात् भूतानां प्राणिनां स्यात्, येन ईश्वरेण सर्वम्
इदं ततं जगत् व्याप्तम् स्वकर्मणा पूर्वोक्तेन प्रतिवर्णं तम्
ईश्वरम् अभ्यर्च्य पूजयित्वा आराध्य केवलं ज्ञाननिष्ठायोग्य-
तालक्षणां सिद्धिं विन्दति मानवः मनुष्यः ॥
यतः एवम्, अतः—
श्रेयान्स्वधर्मो विगुणः
परधर्मात्स्वनुष्ठितात् ।
स्वभावनियतं कर्म
कुर्वन्नामोति किल्बिषम् ॥ ४७ ॥
श्रेयान् प्रशस्यतरः स्वो धर्मः स्वधर्मः, विगुणोऽपि इति
अपिशब्दो द्रष्टव्यः, परधर्मात् । स्वभावनियतं स्वभावेन
नियतम्, यदुक्तं स्वभावजमिति, तदेवोक्तं स्वभावनियतम्
इति ; यथा विषजातस्य कृमेः विषं न दोषकरम्, तथा स्व-
भावनियतं कर्म कुर्वन् न आप्नोति किल्विषं पापम् ॥
स्वभावनियतं कर्म कुर्वाणो विषजः इव कृमि: किल्विषं
न आप्नोतीति उक्तम् ; परधर्मश्च भयावहः इति, अनात्मज्ञश्च