2026-05-03 04:20:37 by ambuda-bot
This page has not been fully proofread.
५२४
श्रीमद्भगवद्गीताभाष्ये
वृत्तवित्तसुखमेधसो जन्म प्रतिपद्यन्ते' इत्यादिस्मृतिभ्यः ;
पुराणे च वर्णिनाम् आश्रमिणां च लोकफलभेदविशेषस्मर-
णात् । कारणान्तरात्तु इदं वक्ष्यमाणं फलम् —
स्वे स्वे कर्मण्यभिरतः
संसिद्धिं लभते नरः ।
स्वकर्मनिरतः सिद्धिं
यथा विन्दति तच्छृणु ॥ ४५ ॥
स्वे स्वे यथोक्तलक्षणभेदे कर्मणि अभिरतः तत्परः संसिद्धिं
स्वकर्मानुष्ठानात् अशुद्धिये सति कायेन्द्रियाणां ज्ञाननिष्ठा-
योग्यतालक्षणां संसिद्धिं लभते प्राप्नोति नरः अधिकृतः
पुरुष: ; किं स्वकर्मानुष्ठानत एव साक्षात् संसिद्धि: ? न ; कथं
तर्हि ? खकर्मनिरतः सिद्धिं यथा येन प्रकारेण विन्दति, तत्
शृणु ॥
यतः प्रवृत्तिर्भूतानां
येन सर्वमिदं ततम् ।
स्वकर्मणा तमभ्यर्च्य
सिद्धिं विन्दति मानवः ॥ ४६ ॥