Proofing

This page has not been fully proofread.

'अष्टादशोऽध्यायः ।
 
५२३
 
शौर्य शूरस्य भावः,
तेजः प्रागल्भ्यम्, धृतिः धारणम्,
सर्वावस्थासु अनवसादः भवति यया धृत्या उत्तम्भितस्य,
दाक्ष्यं दक्षस्य भावः, सहसा प्रत्युत्पन्नेषु कार्येषु अव्यामोहेन
प्रवृत्तिः, युद्धे चापि अपलायनम् अपराङ्मुखीभावः शत्रुभ्यः,
दानं देयद्रव्येषु मुक्तहस्तता, ईश्वरभावश्व ईश्वरस्य भावः,
प्रभुशक्तिप्रकटीकरणम् ईशितव्यान् प्रति, क्षात्रं कर्म क्षत्रिय-
जातेः विहितं कर्म क्षात्रं कर्म स्वभावजम् ॥
 
कृषिगौरक्ष्यवाणिज्यं वैश्यकर्म स्वभावजम् ।
परिचर्यात्मकं कर्म शूद्रखापि स्वभावजम् ॥
 
कृषिगौरक्ष्यवाणिज्यं कृषिश्च गौरक्ष्यं च वाणिज्यं च कृ-
षिगौरक्ष्यवाणिज्यम्, कृषिः भूमेः विलेखनम्, गौरक्ष्यं गाः
रक्षतीति गोरक्षः तस्य भावः गौरक्ष्यम्, पाशुपाल्यम् इत्यर्थः,
वाणिज्यं वणिक्कर्म क्रयविक्रयादिलक्षणं वैश्यकर्म वैश्यजातेः
कर्म वैश्यकर्म स्वभावजम् । परिचर्यात्मकं शुश्रूषास्वभावं
कर्म शूद्रस्यापि स्वभावजम् ॥
 
एतेषां जातिविहितानां कर्मणां सम्यगनुष्ठितानां स्वर्ग-
प्राप्तिः फलं स्वभावतः, 'वर्णा आश्रमाश्च स्वकर्मनिष्ठाः प्रेत्य
कर्मफलमनुभूय ततः शेषेण विशिष्टदेशजातिकुलधर्मायुः श्रुत-