2026-05-03 04:20:36 by ambuda-bot
This page has not been fully proofread.
५२२
श्रीमद्भगवद्गीताभाष्ये
शमादीनि कर्माणि; कथम् उच्यते सत्त्वादिगुणप्रविभक्तानि
इति ? नैष दोषः ; शास्त्रेणापि ब्राह्मणादीनां सत्त्वादिगुण-
विशेषापेक्षयैव शमादीनि कर्माणि प्रविभक्तानि न गुणानपे-
क्षया, इति शास्त्रप्रविभक्तान्यपि कर्माणि गुणप्रविभक्तानि
इति उच्यते ॥
कानि पुनः तानि कर्माणि इति, उच्यते—
शमो दमस्तपः शौचं
क्षान्तिरार्जवमेव च ।
ज्ञानं विज्ञानमास्तिक्यं
ब्रह्मकर्म स्वभावजम् ॥ ४२ ॥
शमः दमश्च यथाव्याख्यातार्थौ, तपः यथोक्तं शारीरादि,
शौचं व्याख्यातम्, क्षान्तिः क्षमा, आर्जवम् ऋजुता एव च
ज्ञानं विज्ञानम्, आस्तिक्यम् आस्तिकभावः श्रद्दधानता आ-
गमार्थेषु, ब्रह्मकर्म ब्राह्मणजातेः कर्म स्वभावजम् — यत् उक्तं
स्वभावप्रभवैर्गुणैः प्रविभक्तानि इति तदेवोक्तं स्वभावजम्
इति ॥!
शौर्य तेजो धृतिर्दाक्ष्यं युद्धे चाप्यपलायनम् ।
दानमीश्वरभावश्च क्षात्रं कर्म स्वभावजम् ॥४३॥