Proofing

This page has not been fully proofread.

५२०
 
श्रीमद्भगवद्गीताभाष्ये
 
न तदस्ति पृथिव्यां वा दिवि देवेषु वा पुनः ।
सत्त्वं प्रकृतिजैर्मुक्तं यदेभिः स्यान्त्रिभिर्गुणैः ॥
 
न तत् अस्ति तत् नास्ति पृथिव्यां वा मनुष्यादिषु
सत्त्वं प्राणिजातम् अन्यद्वा अप्राणि, दिवि देवेषु वा पुनः
सत्त्वम्, प्रकृतिजैः प्रकृतित: जातैः एभिः त्रिभिः गुणैः
सत्त्वादिभिः मुक्तं परित्यक्तं यत् स्यात्, न तत् अस्ति इति
पूर्वेण संबन्धः ॥
 
सर्वः संसारः क्रियाकारक फललक्षणः सत्त्वरजस्तमोगु
णात्मकः अविद्यापरिकल्पितः समूलः अनर्थः उक्तः, वृक्ष-
रूपकल्पनया च ' ऊर्ध्वमूलम्' इत्यादिना, ' तं च असङ्ग-
शस्त्रेण दृढेन च्छित्त्वा ततः पदं तत्परिमार्गितव्यम्' इति च
उक्तम् । तत्र च सर्वस्य त्रिगुणात्मकत्वात् संसारकारण-
निवृत्त्यनुपपत्तौ प्राप्तायाम्, यथा तन्निवृत्तिः स्यात् तथा
वक्तव्यम्, सर्वश्व गीताशास्त्रार्थः उपसंहर्तव्यः, एतावानेव
च सर्ववेदस्मृत्यर्थः पुरुषार्थम् इच्छद्भिः अनुष्ठेयः इत्येवमर्थम्
'ब्राह्मणक्षत्रियविशाम्' इत्यादिः आरभ्यते—
 
ब्राह्मणक्षत्रियविशां शूद्राणां च परंतप ।
कर्माणि प्रविभक्तानि स्वभावप्रभवैर्गुणैः ॥४१॥