2026-05-03 04:20:34 by ambuda-bot
This page has not been fully proofread.
अष्टादशोऽध्यायः ।
५१९
च्छता, तत: जातं आत्मबुद्धिप्रसादजम् । आत्मविषया वा
आत्मावलम्बना वा बुद्धि: आत्मबुद्धिः, तत्प्रसादप्रकर्षाद्वा जात-
मित्येतत् । तस्मात् सात्त्विकं तत् ॥
विषयेन्द्रियसंयोगाद्यत्तदग्रेऽमृतोपमम् ।
परिणामे विषमिव तत्सुखं राजसं स्मृतम् ॥
विषयेन्द्रियसंयोगात् जायते यत् सुखम् तत् सुखम् अप्रे
प्रथमक्षणे अमृतोपमम् अमृतसमम्, परिणामे विषमिव,
बलवीर्यरूपप्रज्ञामेधाधनोत्साहहानिहेतुत्वात् अधर्मतज्जनितन-
रकादिहेतुत्वाच परिणामे तदुपभोगपरिणामान्ते विषमिव,
तत् सुखं राजसं स्मृतम् ॥
यदग्रे चानुबन्धे च सुखं मोहनमात्मनः ।
निद्रालस्यप्रमादोत्थं तत्तामसमुदाहृतम् ॥ ३९ ॥
यत् अग्रे च अनुबन्धे च अवसानोत्तरकाले च सुखं
मोहनं मोहकरम् आत्मन: निद्रालस्यप्रमादोत्थं निद्रा च
आलस्यं च प्रमादश्च तेभ्यः समुत्तिष्ठतीति निद्रालस्यप्रमा-
दोत्थम्, तत् तामसम् उदाहृतम् ॥
अथ इदानीं प्रकरणोपसंहारार्थः श्लोकः आरभ्यते—