2026-05-03 04:20:34 by ambuda-bot
This page has not been fully proofread.
५१८
श्रीमद्भगवद्गीताभाष्ये
सुखं त्विदानीं त्रिविधं
शृणु मे भरतर्षभ ।
अभ्यासाद्रमते यत्र
दुःखान्तं च निगच्छति ॥ ३६ ॥
सुखं तु इदानीं त्रिविधं शृणु, समाधानं कुरु इत्येतत्, मे
मम भरतर्षभ । अभ्यासात् परिचयात् आवृत्तेः रमते रतिं
प्रतिपद्यते यत्र यस्मिन् सुखानुभवे दुःखान्तं च दुःखावसानं
दुःखोपशमं च निगच्छति निश्वयेन प्राप्नोति ॥
यत्तदग्रे विषमिव
परिणामेऽमृतोपमम् ।
तत्सुखं सात्त्विकं प्रोक्त-
मात्मवुद्धिप्रसादजम् ॥ ३७ ॥
यत् तत् सुखम् अग्रे पूर्व प्रथमसंनिपाते ज्ञानवैराग्यध्या-
नसमाध्यारम्भे अत्यन्तायासपूर्वकत्वात् विषमिव दुःखात्मकं
भवति, परिणामे ज्ञानवैराग्यादिपरिपाकजं सुखम् अमृतो-
पमम्, तत् सुखं सात्त्विकं प्रोक्तं विद्वद्भिः, आत्मनः बुद्धिः
आत्मबुद्धि:, आत्मबुद्धेः प्रसादः नैर्मल्यं सलिलस्य इव स्व-