Proofing

This page has not been fully proofread.

अष्टादशोऽध्यायः ।
 
५१७
 
प्रसङ्गेन फलाकाङ्क्षी
 
धृतिः सा पार्थ राजसी ॥ ३४ ॥
 
यया तु धर्मकामार्थान् धर्मश्च कामश्च अर्थश्च धर्मकामा-
र्थाः तान् धर्मकामार्थान् धृत्या यया धारयते मनसि नित्य-
मेव कर्तव्यरूपान् अवधारयति हे अर्जुन, प्रसङ्गेन यस्य
यस्य धर्मादेः धारणप्रसङ्गः तेन तेन प्रसङ्गेन फलाकाङ्क्षी च
भवति यः पुरुषः, तस्य धृतिः या, सा पार्थ, राजसी ॥
यया स्वप्नं भयं शोकं
विषादं मदमेव च ।
 
न विमुञ्चति दुर्मेधा
 
धृतिः सा तामसी मता ॥ ६५ ॥
 
यया स्वप्नं निद्रां भयं त्रासं शोकं विषादं विषण्णतां मदं
विषयसेवाम् आत्मनः बहुमन्यमानः मत्त इव मदम् एव च
मनसि नित्यमेव कर्तव्यरूपतया कुर्वन् न विमुञ्चति धारय-
त्येव दुर्मेधाः कुत्सितमेधाः पुरुषः यः, तस्य धृतिः या, सा
तामसी मता ॥
 
गुणभेदेन क्रियाणां कारकाणां च त्रिविधो भेदः उक्तः ।
अथ इदानीं फलस्य सुखस्य त्रिविधो भेदः उच्यते—
 
S. B. II. 16