Proofing

This page has not been fully proofread.

अष्टादशोऽध्यायः ।
 
५१५
 
अभयम्, भयं च अभयं च भयाभये, दृष्टादृष्टविषययोः
भयाभययोः कारणे इत्यर्थः । बन्धं सहेतुकं मोक्षं च सहेतुकं
या वेत्ति विजानाति बुद्धि:, सा पार्थ सात्त्विकी । तत्र ज्ञानं
बुद्धेः वृत्तिः ; बुद्धिस्तु वृत्तिमती । धृतिरपि वृत्तिविशेषः एव
बुद्धेः ॥
 
यया धर्ममधर्म च
 
कार्य चाकार्यमेव च ।
अयथावत्प्रजानाति
 
बुद्धिः सा पार्थ राजसी ॥ ३१ ॥
 
यया धर्मे शास्त्रचोदितम् अधर्मं च तत्प्रतिषिद्धं कार्य च
अकार्यमेव च पूर्वोक्ते एव कार्याकार्ये अयथावत् न यथावत्
सर्वत: निर्णयेन न प्रजानाति, बुद्धिः सा पार्थ, राजसी ॥
 
अधर्म धर्ममिति या
 
मन्यते तमसावृता ।
सर्वार्थान्विपरीतांच
 
बुद्धिः सा पार्थ तामसी ॥ ३२ ॥
 
अधर्मं प्रतिषिद्धं धर्मं विहितम् इति या मन्यते जानाति