Proofing

This page has not been fully proofread.

५१४
 
श्रीमद्भगवद्गीताभाष्ये
 
वुद्धेर्भेदं धृतेश्चैव गुणतस्त्रिविधं शृणु ।
प्रोच्यमानमशेषेण पृथक्त्वेन धनंजय ॥ २९ ॥
 
बुद्धेः भेदं धृतेश्चैव भेदं गुणतः सत्त्वादिगुणतः त्रिविधं
शृणु इति सूत्रोपन्यासः । प्रोच्यमानं कथ्यमानम् अशेषेण
निरवशेषतः यथावत् पृथक्त्वेन विवेकतः धनंजय, दिग्वि-
जये मानुषं दैवं च प्रभूतं धनं जितवान् तेन असौ धनं-
जयः अर्जुनः ॥
 
प्रवृत्तिं च निवृत्तिं च
कार्याकार्ये भयाभये ।
बन्धं मोक्षं च या वेत्ति
 
'
 
वुद्धिः सा पार्थ सात्त्विकी ॥ ३० ॥
प्रवृत्तिं च प्रवृत्तिः प्रवर्तनं बन्धहेतुः कर्ममार्गः शास्त्रवि-
हितविषयः, निवृत्तिं च निर्वृत्तिः मोक्षहेतुः संन्यासमार्ग:-
बन्धमोक्षसमानवाक्यत्वात् प्रवृत्तिनिवृत्ती कर्मसंन्यासमार्गौ
इति अवगम्यते— कार्याकार्ये विहितप्रतिषिद्धे लौकिके
वैदिके वा शास्त्रबुद्धेः कर्तव्याकर्तव्ये करणाकरणे इत्येतत्;
कस्य ? देशकालाद्यपेक्षया दृष्टादृष्टार्थानां कर्मणाम् । भया-
भये विभेति अस्मादिति भयं चोरव्याघ्रादि, न भयं
 
.