Proofing

This page has not been fully proofread.

अष्टादशोऽध्यायः ।
 
५१३
 
शुचिः बाह्याभ्यन्तरशौचवर्जितः, हर्षशोकान्वितः इष्टप्राप्तौ
हर्षः अनिष्टप्राप्तौ इष्टवियोगे च शोकः ताभ्यां हर्षशोकाभ्याम्
अन्वितः संयुक्तः, तस्यैव च कर्मण: संपत्तिविपत्तिभ्यां हर्ष-
ताभ्यां संयुक्तो यः कर्ता सः राजसः परि-
 
शोकौ स्याताम्,
 
कीर्तितः ॥
 
अयुक्तः प्राकृतः स्तब्धः
 
शठो नैकृतिकोऽलसः ।
 
विषादी दीर्घसूत्री च
 
कर्ता तामस उच्यते ॥ २८ ॥
 
अयुक्तः न युक्त:. असमाहितः, प्राकृतः अत्यन्तासंस्कृत-
बुद्धिः बालसमः, स्तब्धः दण्डवत् न नमति कस्मैचित्,
शठः मायावी शक्तिगूहनकारी, नैकृतिकः परविभेदनपरः,
अलस: अप्रवृत्तिशीलः कर्तव्येष्वपि, विषादी विषादवान्
सर्वदा अवसन्नस्वभावः, दीर्घसूत्री च कर्तव्यानां दीर्घप्रसा-
रणः, सर्वदा मन्दस्वभाव:, यत् अद्य श्वो वा कर्तव्यं त्
मासेनापि न करोति, यश्च एवंभूतः, सः कर्ता तामसः
उच्यते ॥