2026-05-03 04:20:31 by ambuda-bot
This page has not been fully proofread.
५१२
श्रीमद्भगवद्गीताभाप्ये
इदानीं कर्तृभेदः उच्यते——
मुक्तसङ्गोऽनहंवादी
धृत्युत्साहसमन्वितः ।
सिद्ध्यसिद्धयोर्निर्विकारः
कर्ता सात्त्विक उच्यते ॥ २६ ॥
मुक्तसङ्गः मुक्त: परित्यक्तः सङ्गः येन सः मुक्तसङ्गः,
अनहंवादी न अहंवदनशीलः, धृत्युत्साहसमन्वितः धृतिः
धारणम् उत्साहः उद्यमः ताभ्यां समन्वितः संयुक्तः धृत्यु-
त्साहसमन्वितः, सिद्ध्यसिद्धयोः क्रियमाणस्य कर्मण: फल-
सिद्धौ असिद्धौ च सिद्धयसिद्धयोः निर्विकारः, केवलं
शास्त्रप्रमाणेन प्रयुक्तः न फलरागादिना यः सः निर्विकारः
उच्यते । एवंभूतः कर्ता यः सः सात्त्विकः उच्यते ॥
रागी कर्मफलप्रेप्सुलुब्धो हिंसात्मकोऽशुचिः ।
हर्षशोकान्वितः कर्ता राजसः परिकीर्तितः ॥
रागी रागः अस्य अस्तीति रागी, कर्मफलप्रेप्सुः कर्म -
फलार्थी इत्यर्थः, लुब्धः परद्रव्येषु संजाततृष्ण, तीर्थादौ
स्वद्रव्यापरित्यागी वा, हिंसात्मकः परपीडाकरस्वभावः, अ-