2026-05-03 04:20:31 by ambuda-bot
This page has not been fully proofread.
५१०
"
श्रीमद्भगवद्गीताभाष्ये
णदार्वादिमात्रम् इत्येवम् एकस्मिन् कार्ये सक्तम् अहैतुकं
हेतुवर्जितं निर्युक्तिकम्, अतत्त्वार्थवत् अयथाभूतार्थवत्, यथा-
भूतः अर्थः तत्त्वार्थः, सः अस्य ज्ञेयभूतः अस्तीति तत्त्वार्थ-
वत्, न तत्त्वार्थवत् अतत्त्वार्थवत्; अहैतुकत्वादेव अल्पं च,
अल्पविषयत्वात् अल्पफलत्वाद्वा । तत् तामसम् उदाहृतम् ।
तामसानां हि प्राणिनाम् अविवेकिनाम् ईदृशं ज्ञानं दृश्यते ॥
अथ इदानीं कर्मणः त्रैविध्यम् उच्यते—
नियतं सङ्गरहितमरागद्वेषतः कृतम् ।
अफलप्रेप्सुना कर्म यत्तत्सात्त्विकमुच्यते ॥ २३ ॥
नियतं नित्यं सङ्गरहितम् आसक्तिवर्जितम् अरागद्वेषत:-
कृतं रागप्रयुक्तेन द्वेषप्रयुक्तेन च कृतं रागद्वेषतः कृतम्,
तद्विपरीतम् अरागद्वेषतः कृतम्, अफलप्रेप्सुना फलं प्रेप्स-
तीति फलप्रेप्सुः फलतृष्णः तद्विपरीतेन अफलप्रेप्सुना कर्त्रा
कृतं कर्म यत्, तत् सात्त्विकम् उच्यते ॥
यत्तु कामे सुना कर्म साहंकारेण वा पुनः ।
क्रियते बहुलायासं तद्राजसमुदाहृतम् ॥ २४ ॥
यत्तु कामे सुना कर्मफल प्रेप्सुना इत्यर्थः, कर्म साइंकारेण