2026-05-03 04:20:30 by ambuda-bot
This page has not been fully proofread.
अष्टादशोऽध्यायः ।
५०९
यानि द्वैतदर्शनानि तानि असम्यग्भूतानि राजसानि
तामसानि च इति न साक्षात् संसारोच्छित्तये भवन्ति-
पृथक्त्वेन तु यज्ज्ञानं
नानाभावान्पृथग्विधान् ।
वेत्ति सर्वेषु भूतेषु
तज्ज्ञानं विद्धि राजसम् ॥ २१ ॥
-
पृथक्त्वेन तु भेदेन प्रतिशरीरम् अन्यत्वेन यत् ज्ञानं
नानाभावान् भिन्नान् आत्मनः पृथग्विधान् पृथक्प्रकारान्
भिन्नलक्षणान् इत्यर्थः, वेत्ति विजानाति यत् ज्ञानं सर्वेषु भूतेषु,
ज्ञानस्य कर्तृत्वासंभवात् येन ज्ञानेन वेत्ति इत्यर्थः, तत् ज्ञानं
विद्धि राजसं रजोगुणनिर्वृत्तम् ॥
यत्तु कृत्स्नवदेकस्मिन्कार्ये सक्तमहैतुकम् ।
अतत्त्वार्थवदल्पं च तत्तामसमुदाहृतम् ॥ २२ ॥
यत् ज्ञानं कृत्स्नवत् समस्तवत् सर्वविषयमिव एकस्मिन्
कार्ये देहे बहिर्वा प्रतिमादौ सक्तम् ' एतावानेव आत्मा
ईश्वरो वा, न अतः परम् अस्ति' इति, यथा नग्नक्षपणका-
दीनां शरीरान्तर्वर्ती देहपरिमाणो जीवः, ईश्वरो वा पाषा-