Proofing

This page has not been fully proofread.

अष्टादशोऽध्यायः ।
 
५०७
 
अनेन इति बाह्यं श्रोबादि, अन्तःस्थं बुद्धयादि, कर्म ईप्सि-
ततमं कर्तुः क्रियया व्याप्यमानम्, कर्ता करणानां व्यापार-
यिता उपाधिलक्षण:, इति विविधः त्रिप्रकारः कर्मसंग्रहः,
संगृह्यते अस्मिन्निति संग्रहः, कर्मणः संग्रहः कर्मसंग्रहः, कर्म
एषु हि त्रिषु समवैति, तेन अयं त्रिविधः कर्मसंग्रहः ॥
 
अथ इदानीं क्रियाकारकफलानां सर्वेषां गुणात्मकत्वात्
सस्वरजस्तमोगुणभेदतः त्रिविधः भेदः वक्तव्य इति आर-
भ्यते—
 
ज्ञानं कर्म च कर्ता च
 
त्रिधैव गुणभेदतः ।
प्रोच्यते गुणसंख्याने
 
यथावच्छृणु तान्यपि ॥ १९ ॥
 
ज्ञानं कर्म च कर्म क्रिया, न कारकं पारिभाषिकम्
ईप्सिततमं कर्म, कर्ता च निर्वर्तकः क्रियाणां विधा एव,
अवधारणं गुणव्यतिरिक्तजात्यन्तराभावप्रदर्शनार्थं गुणभेदतः
सत्त्वादिभेदेन इत्यर्थः । प्रोच्यते कथ्यते गुणसंख्याने का-
पिले शास्त्रे तदपि गुणसंख्यानशास्त्रं गुणभोक्तृविषये प्रमाण-
मेव । परमार्थब्रह्मैकत्वविषये यद्यपि विरुध्यते, तथापि ते हि