Proofing

This page has not been fully proofread.

५०६
 
श्रीमद्भगवद्गीताभाष्ये
 
भृत्त्वाभिमानानुपपत्तौ अविद्याकृताशेषकर्मसंन्यासोपपत्तेः सं-
न्यासिनाम् अनिष्टादि त्रिविधं कर्मणः फलं न भवति इति
उपपन्नम् ; तद्विपर्ययाच्च इतरेषां भवति इत्येतञ्च्च अपरिहार्यम्
इति एष: गीताशास्त्रार्थः उपसंहृतः । स एषः सर्ववेदार्थ-
सार: निपुणमतिभिः पण्डितैः विचार्य प्रतिपत्तव्यः इति तत्र
तत्र प्रकरणविभागेन दर्शितः अस्माभिः शास्त्रन्यायानुसा-
रेण ॥
 
अथ इदानीं कर्मणां प्रवर्तकम् उच्यते--
 
ज्ञानं ज्ञेयं परिज्ञाता त्रिविधा कर्मचोदना ।
करणं कर्म कर्तेति त्रिविधः कर्मसंग्रहः ॥ १८॥
 
। ज्ञानं ज्ञायते अनेन इति सर्वविषयम् अविशेषेण उच्यते ।
तथा ज्ञेयं ज्ञातव्यम्, तदपि सामान्येनैव सर्वम् उच्यते । तथा
परिज्ञाता उपाधिलक्षण: अविद्याकल्पितः भोक्ता । इति एतत्
लयम् अविशेषेण सर्वकर्मणां प्रवर्तिका त्रिविधा त्रिप्रकारा
कर्मचोदना । ज्ञानादीनां हि त्रयाणां संनिपाते हानोपादाना-
दिप्रयोजनः सर्वकर्मारम्भः स्यात् । ततः पञ्चभिः अधिष्ठा-
नादिभिः आरब्धं वाङ्मनः कायाश्रयभेदेन त्रिधा राशीभूतं
त्रिषु करणादिषु संगृह्यते इत्येतत् उच्यते—करणं क्रियते