Proofing

This page has not been fully proofread.

अष्टादशोऽध्यायः ।
 
५०.३
 
कस्मात् ? वेदान्ताचार्योपदेशन्यायैः अकृतबुद्धित्वात् असं-
स्कृतबुद्धित्वात् ; योऽपि देहादिव्यतिरिक्तात्मवादी आत्मान-
मेव केवलं कर्तारं पश्यति, असावपि अकृतबुद्धिः ; अतः
अकृतबुद्धित्वात् न सः पश्यति आत्मनः तत्त्वं कर्मणो वा
इत्यर्थः । अत: दुर्मतिः, कुत्सिता विपरीता दुष्टा अजस्रं
जननमरणप्रतिपत्तिहेतुभूता मतिः अस्य इति दुर्मतिः । सः
पश्यन्नपि न पश्यति, यथा तैमिरिकः अनेकं चन्द्रम्, यथा
वा अध्रेषु धावत्सु चन्द्रं धावन्तम्, यथा वा वाहने उप-
विष्टः अन्येषु धावत्सु आत्मानं धावन्तम् ॥
 
कः पुनः सुमतिः यः सम्यक् पश्यतीति, उच्यते-
यस्य नाहंकृतो भावो वुद्धिर्यस्य न लिप्यते ।
हत्वापि स इमाँल्लोकान्न हन्ति न निबध्यते ॥
 
यस्य शास्त्राचार्योपदेशन्यायसंस्कृतात्मनः न भवति अहं-
कृत: 'अहं कर्ता' इत्येवंलक्षणः भावः भावना प्रत्य-
'यः- एते एव पश्च अधिष्ठानादयः अविद्यया आत्मनि
कल्पिताः सर्वकर्मणां कर्तारः, न अहम्, अहं तु तद्वधापाराणां
साक्षिभूतः 'अप्राणो ह्यमनाः शुभ्रो ह्यक्षरात्परतः परः '
केवलः अविक्रियः इत्येवं पश्यतीति एतत् — बुद्धि: अन्त:-