2026-05-03 04:20:27 by ambuda-bot
This page has not been fully proofread.
५०२
श्रीमद्भगवद्गीताभाष्ये
अशास्त्रीयम् अधर्म्यं यच्चापि निमिषितचेष्टितादि जीवनहेतुः
तदपि पूर्वकृतधर्माधर्मयोरेव कार्यमिति न्याय्यविपरीतयोरेव
ग्रहणेन गृहीतम्, पञ्च एते यथोक्ताः तस्य सर्वस्यैव कर्मणो
हेतवः कारणानि ॥
ननु एतानि अधिष्ठानादीनि सर्वकर्मणां निर्वर्तकानि ।
कथम् उच्यते 'शरीरवाङ्मनोभिः यत् कर्म प्रारभते ' इति ?
नैष दोषः ; विधिप्रतिषेधलक्षणं सर्वं कर्म शरीरादित्रयप्रधा-
नम् ; तदङ्गतया दर्शनश्रवणादि च जीवनलक्षणं त्रिधैव राशी-
कृतम् उच्यते शरीरादिभिः आरभ्यते इति । फलकालेऽपि
तत्प्रधानैः साधनैः भुज्यते इति पश्चानामेव हेतुत्वं न विरु-
ध्यते इति ॥
तत्रैवं सति कर्तारमात्मानं केवलं तु यः ।
पश्यत्यकृतबुद्धित्वान्न स पश्यति दुर्मतिः ॥ १६॥
तत्र इति प्रकृतेन संबध्यते । एवं सति एवं यथोक्तैः
पञ्चभिः हेतुभिः निर्वयें सति कर्मणि । तत्रैवं सति इति
दुर्मतित्वस्य हेतुत्वेन संबध्यते । तत्र एतेषु आत्मानन्यत्वेन
अविद्यया परिकल्पितैः क्रियमाणस्य कर्मण: ' अहमेव कर्ता '
इति कर्तारम् आत्मानं केवलं शुद्धं तु यः पश्यति अविद्वान्;