2026-05-03 04:20:27 by ambuda-bot
This page has not been fully proofread.
अष्टादशोऽध्यायः ।
५०१
सांख्ये कृतान्ते वेदान्ते प्रोक्तानि कथितानि सिद्धये निष्प-
त्त्यर्थं सर्वकर्मणाम् ॥
कानि तानीति, उच्यते-
अधिष्ठानं तथा कर्ता करणं च पृथग्विधम् ।
विविधाश्च पृथक्चेष्टा दैवं चैवात्र पञ्चमम् ॥
'
अधिष्ठानम् इच्छाद्वेषसुखदुःखज्ञानादीनाम् अभिव्यक्ते-
राश्रयः अधिष्ठानं शरीरम्, तथा कर्ता उपाधिलक्षणः
भोक्ता, करणं च श्रोत्रादि शब्दाद्युपलब्धये पृथग्विधं नाना-
प्रकारं तत् द्वादशसंख्यं विविधाश्च पृथक्चेष्टाः वायवीया:
प्राणापानाद्याः दैवं चैत्र दैवमेव च अत्र एतेषु चतुर्षु पञ्चमं
पञ्चानां पूरणम् आदित्यादि चक्षुराद्यनुग्राहकम् ॥
शरीरवाङ्मनोभिर्य-
कर्म प्रारभते नरः ।
न्याय्यं वा विपरीतं वा
पञ्चैते तस्य हेतवः ॥ १५ ॥
शरीरवाङ्मनोभिः यत् कर्म त्रिभिः एतैः प्रारभते निर्व-
र्तयति नरः, न्याय्यं वा धर्म्यं शास्त्रीयम्, विपरीतं वा
S. B. II. 15