2026-05-03 04:20:27 by ambuda-bot
This page has not been fully proofread.
५००
श्रीमद्भगवद्गीताभाष्ये
न्यासित्वं संभवति, अविद्याध्यारोपितत्वात् आत्मनि क्रिया-
कारकफलानाम्; न तु अज्ञस्य अधिष्ठानादीनि क्रियाक-
र्तृकारकाणि आत्मत्वेनैव पश्यतः अशेषकर्मसंन्यासः संभ-
वति ॥
तदेतत् उत्तरैः श्लोकैः दर्शयति-
पञ्चैतानि महाबाहो
कारणानि निबोध मे ।
सांख्ये कृतान्ते प्रोक्तानि
सिद्धये सर्वकर्मणाम् ॥ १३ ॥
पञ्च एतानि वक्ष्यमाणानि हे महाबाहो, कारणानि निर्व-
र्तकानि । निबोध मे मम इति उत्तरत्र चेतः समाधानार्थम्,
वस्तुवैषम्य प्रदर्शनार्थं च । तानि च कारणानि ज्ञातव्यतया
स्तौति—— सांख्ये ज्ञातव्याः पदार्थाः संख्यायन्ते यस्मिन्
शास्त्रे तत् सांख्यं वेदान्तः । कृतान्ते इति तस्यैव विशेषणम् ।
कृतम् इति कर्म उच्यते, तस्य अन्तः परिसमाप्तिः यत्र सः
कृतान्तः, कर्मान्तः इत्येतत् । ' यावानर्थ उदपाने' सर्व
कर्माखिलं पार्थ ज्ञाने परिसमाप्यते' इति आत्मज्ञाने संजाते
सर्वकर्मणां निवृत्तिं दर्शयति । अतः तस्मिन् आत्मज्ञानार्थे