Proofing

This page has been fully proofread once and needs a second look.

<page>
<ignore>
द्वितीयोऽध्यायः ।
 
४३
 
</ignore>
<verse>
जातस्य हि ध्रुवो मृत्युर्भुध्रुवं जन्म मृतस्य च ।

तस्मादपरिहार्येऽर्थे न त्वं शोचितुमर्हसि ॥२७॥
 
</verse>
<p>
जातस्य हि लब्धजन्मनः ध्रुवः अव्यभिचारी मृत्युः

मरणं ध्रुवं जन्म मृतस्य च । तस्मादपरिहार्योऽयं जन्ममरण-

लक्षणोऽर्थः । तस्मिन्नपरिहार्येऽर्थे न त्वं शोचितुमर्हसि ॥
 
</p>
<p>
कार्यकरणसंघातात्मकान्यपि भूतान्युद्दिश्य शोको न
 

युक्तः कर्तुम्, यत:-
 
-
 
तः---</p>
<verse>
अव्यक्तादीनि भूतानि व्यक्तमध्यानि भारत ।

अव्यक्तनिधनान्येव तत्र का परिदेवना ॥ २८ ॥
 
.
 
</verse>
<p>
अव्यक्तादीनि · अव्यक्तम् अदर्शनम् अनुपलब्धिः आदि:
दिः
येषां भूतानां पुत्रमित्रादिकार्यकरणसंघातात्मकानां तानि

अव्यक्तादीनि भूतानि प्रागुत्पत्तेः, उत्पन्नानि च प्राङ्मर-

णात् व्यक्तमध्यानि । अव्यक्तनिधनान्येव पुनः अव्यक्तम् अद-

र्शनं निधनं मरणं येषां तानि अव्यक्तनिधनानि । मरणा-

दूर्ध्वमप्यव्यक्ततामेव प्रतिपद्यन्ते इत्यर्थः । तथा चोक्तम्--
'

&apos;
अदर्शनादापतितः पुनश्चादर्शनं गतः । नासौ त न तस्य त्वं

वृथा का परिदेवना'&apos; इति । तत्र का परिदेवना को वा

प्रलापः अदृष्टदृष्टप्रनष्टभ्रान्तिभूतेषु भूतेष्वित्यर्थः ॥
 
</p>
</page>