Proofing

This page has been fully proofread once and needs a second look.

<page>
<ignore>
४२
 
श्रीमद्भगवद्गीताभाष्ये
 
</ignore>
<p>
त्मा । अत एव अचिन्त्यः अयम् । यद्धि इन्द्रियगोचर:
रः
तत् चिन्ताविषयत्वमापद्यते । अयं त्वात्मा अनिन्द्रिय-

गोचरत्वात् अचिन्त्यः । अत एव अविकार्यः, यथा क्षीरं

दध्यातश्वञ्चनादिना विकारि न तथा अयमात्मा । निर-

वयवत्वाच्च अविक्रियः । न हि निरवयवं किंचित् विक्रियात्मकं

दृष्टम् । अविक्रियत्वात् अविकार्यः अयम् आत्मा उच्यते ।

तस्मात् एवं यथोक्तप्रकारेण एनम् आत्मानं विदित्वा त्वं

न अनुशोचितुमर्हसि हन्ताह मेषाम् , मयैते हन्यन्त इति ॥
 
:
 
</p>
<p>
आत्मनः अनित्यत्वमभ्युपगम्य इदमुच्यते—
 
</p>
<verse>
अथ चैनं नित्यजातं नित्यं वा मन्यसे मृतम् ।

तथापि त्वं महाबाहो नैवं शोचितुमर्हसि ॥ २६
 
</verse>
<p>
अथ च इति अभ्युपगमार्थः । एनं प्रकृतमात्मानं नित्य-

जातं लोकप्रसिद्ध्या प्रत्यनेकशरीरोत्पत्ति जातो जात इति

मन्यसे तथा प्रतितत्तद्विनाशं नित्यं वा मन्यसे मृतं मृतो

मृत इति ; तथापि तथाभावेऽपि आत्मनि त्वं महाबाहो, न

एवं शोचितुमर्हसि, जन्मवतो जन्म नाशवतो नाशश्वेचेत्ये-

ताववश्यंभाविनाविति ॥
 
</p>
<p>
तथा च सति-
 
--</p>
</page>