Proofing

This page has been fully proofread once and needs a second look.

<page>
<ignore>
द्वितीयोऽध्यायः ।
 
४१
 
</ignore>
<p>
यस्मात् अन्योन्यनाशहेतुभूतानि एनमात्मानं नाशयितुं

नोत्सहन्ते अस्यादीनि तस्मात् नित्यः । नित्यत्वात् सर्वगतः ।

सर्वगतत्वात् स्थाणुः इव, स्थिर इत्येतत् । स्थिरत्वात् अचल:
लः
अयम् आत्मा । अतः सनातनः चिरंतनः, न कारणात्कुत-

श्चित् निष्पन्नः, अभिनव इत्यर्थः ॥
 
#
 
</p>
<p>
नैतेषां श्लोकानां पौनरुक्त्यं चोदनीयम्, यतः एकेनैव

श्लोकेन आत्मनः नित्यत्वमविक्रियत्वं चोक्तम् '&apos; न जायते

म्रियते वा'&apos; इत्यादिना । तत्र यदेव आत्मविषयं किंचिदु-

च्यते, तत् एतस्मात् श्लोकार्थान् न अतिरिच्यते ; किंचि-

च्छब्दतः पुनरुक्तम्, किंचिदर्थतः इति । दुर्बोधत्वात् आत्म-

वस्तुनः पुनः पुनः प्रसङ्गमापाद्य शब्दान्तरेण तदेव वस्तु

निरूपयति भगवान् वासुदेवः कथं नु नाम संसारिणामसं-

सारित्वबुद्धिगोचरतामापन्नं सत् अव्यक्तं तत्त्वं संसारनिवृ-

त्
तये स्यात् इति ॥
 

किंच—
 
</p>
<verse>
अव्यक्तोऽयमचिन्त्योऽयमविकार्योऽयमुच्यते ।
 

तस्मादेवं विदित्वैनं नानुशोचितुमर्हसि ॥ २५ ॥
</verse>
<p merge-next="true">
सर्वकरणाविषयत्वात् न व्यज्यत इति अव्यक्तः अय
 
म्</p>
</page>