Proofing

This page has been fully proofread once and needs a second look.

<page>
<ignore>
४०
 
श्रीमद्भगवद्गीताभाष्ये
 
</ignore>
<p>
विहाय परित्यज्य नवानि अभिनवानि गृह्णाति उपादत्ते नरः

पुरुष :षः अपराणि अन्यानि, तथा तद्वदेव शरीराणि विहाय

जीर्णानि अन्यानि संयाति संगच्छति नवानि देही आत्मा

पुरुषवत् अविक्रिय एवेत्यर्थः ॥
 
</p>
<p>
कस्मात् अविक्रिय एवेति, आह-
 
--</p>
<verse>
नैनं छिन्दन्ति शस्त्राणि नैनं दहति पावकः ।

न चैनं क्लेदयन्त्यापो न शोषयति मारुतः ॥२३॥
 
</verse>
<p>
एनं प्रकृतं देहिनं न च्छिन्दन्ति शस्त्राणि, निरवयवत्वात्

न अवयवविभागं कुर्वन्ति । शस्त्राणि अस्यादीनि । तथा न

एनं दहति पावकः, अग्निरपि न भस्मीकरोति । तथा न च

एनं क्लेदयन्ति आपः । अपां हि सावयवस्य वस्तुन:नः आर्द्रारी-

भावकरणेन अवयवविश्लेषापादने सामर्थ्यम् । तत् न निर-

वयवे आत्मनि संभवति । तथा स्नेहवत् द्रव्यं स्नेहशोषणेन

नाशयति वायुः । एनं तु आत्मानं न शोषयति मारुतोऽपि ॥
 

यतः एवं तस्मात् —
 
</p>
<verse>
अच्छेद्योऽयमदाह्योऽयमक्लेद्योऽशोष्य एवं च ।
 

नित्यः सर्वगतः स्थाणुरचलोऽयं सनातनः ॥ २४॥
 
</verse>
</page>