2026-05-03 04:19:32 by ambuda-bot
This page has not been fully proofread.
द्वितीयोऽध्यायः ।
३९
स्येदिति चेत्, न ; 'नैव कुर्वन्न कारयन्' इति विशेष-
णात् । सर्वकर्मसंन्यासः अयं भगवता उक्तः मरिष्यतः न
जीवतः इति चेत्; न; 'नवद्वारे पुरे देही आस्ते ' इति विशे-
णानुपपत्तेः । न हि सर्वकर्मसंन्यासेन मृतस्य तद्देहे आसनं
संभवति । अकुर्वतः अकारयतश्च देहे संन्यस्य इति संबन्ध:
न देहे आस्ते इति चेत्, न; सर्वत्र आत्मनः अविक्रियत्वा-
वधारणात्, आसनक्रियायाश्च अधिकरणापेक्षत्वात्, तद-
नपेक्षत्वाच्च संन्यासस्य । संपूर्वस्तु न्यासशब्दः अत्र त्यागार्थ:,
न निक्षेपार्थः । तस्मात् गीताशास्त्रे आत्मज्ञानवतः संन्यासे
एंव अधिकारः, न कर्मणि इति तत्र तत्र उपरिष्टात् आत्म-
ज्ञानप्रकरणे दर्शयिष्यामः ॥
प्रकृतं तु वक्ष्यामः । तत्र आत्मनः अविनाशित्वं प्रति-
ज्ञातम् । तत्किमिवेति, उच्यते-
वासांसि जीर्णानि यथा विहाय
नवानि गृह्णाति नरोऽपराणि ।
तथा शरीराणि विहाय जीर्णा-
न्यन्यानि संयाति नवानि देही ॥ २२ ॥
• वासांसि वस्त्राणि जीर्णानि दुर्बलतां गतानि यथा लोके