Proofing

This page has been fully proofread once and needs a second look.

<page>
<ignore>
३८
 
"
 
श्रीमद्भगवद्गीताभाष्ये
 
</ignore>
<p>
साहसमात्रमेतत् । ज्ञानं च उत्पद्यमानं तद्विपरीतमज्ञानम्

अवश्यं बाधते इत्यभ्युपगन्तव्यम् । तञ्च अज्ञानं दर्शितम्

हन्ता अहम्, हतः अस्मि' इति '&apos; इति &apos;उभौ तौ न विजानीत : '
&apos;
इति । अत्र च आत्मन: हननक्रियायाः कर्तृत्वं कर्मत्वं हेतु-

कर्तृत्वं च अज्ञानकृतं दर्शितम् । तच्च सर्वक्रियास्वपि समा-

नं कर्तृत्वादेः अविद्याकृतत्वम्, अविक्रियत्वात् आत्मन: ।
नः ।
विक्रियावान् हि कर्ता आत्मनः कर्मभूतमन्यं प्रयोजयति
'

&apos;
कुरु'&apos; इति । तदेतत् अविशेषेण विदुपःषः सर्वक्रियासु कर्तृत्वं

हेतुकर्तृत्वं च प्रतिषेधति भगवान्वासुदेव:वः विदुषः कर्माधि-

काराभावप्रदर्शनार्थम् '&apos;वेदाविनाशिनं .:.. कथं स पुरुष: '
षः&apos;
इत्यादिना । क्व पुनः विदुषः अधिकार इति एतदुक्तं पूर्व-

मेव '&apos;ज्ञानयोगेन सांख्यानाम्'&apos; इति । तथा च सर्वकर्म-

संन्यासं वक्ष्यति '&apos;सर्वकर्माणि मनसा'&apos; इत्यादिना ॥
 
</p>
<p merge-next="true">
ननु मनसा इति वचनात् न वाचिकानां कायिकानां

च संन्यासः इति चेत्, न ; सर्वकर्माणि इति विशेषि-

तत्वात् । मानसानामेव सर्वकर्मणामिति चेत्, न ; मनोव्या-

पारपूर्वकत्वाद्वाक्कायव्यापांपाराणां मनोव्यापाराभावे तदनुप-

पत्तेः । शास्त्रीयाणां वाक्कायकर्मणां कारणानि मानसानि

कर्माणि वर्जयित्वा अन्यानि सर्वकर्माणि मनसा संन्य-
 
</p>
</page>