Proofing

This page has been fully proofread once and needs a second look.

<page>
<ignore>
द्वितीयोऽध्यायः ।
 
३७
 
</ignore>
<p>
भगवान् नारायणः सांख्यान् विदुषः अविदुषश्च कर्मिणः

प्रविभज्य द्वे निष्ठे ग्राहयति — '&apos;ज्ञानयोगेन सांख्यानां कर्म-

योगेन योगिनाम्'&apos; इति । तथा च पुत्राय आह भगवान्

व्यास:- 'सः--- &apos;द्वाविमावथ पन्थानौ'&apos; इत्यादि । तथा च क्रि-
 
-
 

यापथश्चैव पुरस्तात् पश्चात्संन्यासश्चेति । एतमेव विभागं पुन:
नः
पुनर्दर्शयिष्यति भगवान् — अतत्त्ववित् '&apos; अहंकारविमूढात्मा

कर्ताहमिति मन्यते'&apos;, तत्त्ववित्तु नाहं करोमि इति । तथा च
'

&apos;
सर्वकर्माणि मनसा संन्यस्यास्ते'&apos; इत्यादि ॥
 
तब
</p>
<p merge-next="true">तत्र
केचित्पण्डितंमन्या वदन्ति - '--- <quote>&apos;जन्मादिषड्भाव-

विक्रियारहितः अविक्रियः अकर्ता एकः अहमात्मा' इति न
&apos;</quote> इति न
कस्यचित् ज्ञानम् उत्पद्यते, यस्मिन् सति सर्वकर्मसंन्यासः

उपदिश्यते इति । तन्न ; '&apos; न जायते'&apos; इत्यादिशास्त्रोपदेशान-

र्थक्यप्रसङ्गात् । यथा च शास्त्रोपदेशसामर्थ्यात् धर्माधर्मास्ति-

त्वविज्ञानं कर्तुश्च देहान्तरसंबन्धविज्ञानमुत्पद्यते, तथा शा-
स्ना

स्त्रा
त् तस्यैव आत्मनः अविक्रियत्वाकर्तृत्वैकत्वादिविज्ञानं

कस्मात् नोत्पद्यते इति प्रष्टव्याः ते । करणागोचरत्वात् इति

चेत्, न; '&apos;मनसैवानुद्रष्टव्यम्'&apos; इति श्रुतेः । शास्त्राचार्योप-

देशशमदमादिसंस्कृतं मनः आत्मदर्शने करणम् । तथा च

तदधिगमाय अनुमाने आगमे च सति ज्ञानं नोत्पद्यत इति
 
</p>
</page>