Proofing

This page has been fully proofread once and needs a second look.

<page>
<ignore>
३६
 
</ignore>
<ignore>
श्रीमद्भगवद्गीताभाष्ये
 
</ignore>
<p>
कर्माणि शास्त्रेण विधीयन्ते तानि अविदुषो विहितानि इति

भगवतो निश्चयोऽवगम्यते ॥
 
</p>
<p merge-next="true">
ननु विद्यापि अविदुष एव विधीयते, विदितविद्यस्य पि-

ष्
टपेषणवत् विद्याविधानानर्थक्यात् । तत्र अविदुषः कर्माणि

विधीयन्ते न विदुषः इति विशेषो नोपपद्यते इति चेत्, न;

अनुष्ठेयस्य भावाभावविशेषोपपत्तेः । अग्निहोत्रादिविध्यर्थ-

ज्ञानोत्तरकालम् अग्निहोत्रादिकर्म अनेकसाधनोपसंहारपूर्वक-

मनुष्ठेयम् '&apos;कर्ता अहम्, मम कर्तत्र्व्यम्'&apos; इत्येवंप्रकारविज्ञा-

नवतः अविदुषः यथा अनुष्ठेयं भवति, न तु तथा '&apos;न जायते'
&apos;
इत्याद्यात्मस्वरूपविध्यर्थज्ञानोत्तरकालभावि किंचिदनुष्ठेयं भव-

ति; किंतु '&apos;नाहं कर्ता, नाहं भोक्ता'&apos; इत्याद्यात्मैकत्वाकर्तृ-

त्वादिविषयज्ञानात् नान्यदुत्पद्यते इति एष विशेष उपपद्यते ।

यः पुनः '&apos; कर्ता अहम्'&apos; इति वेत्ति आत्मानम्, तस्य 'मम
&apos;मम
इदं कर्तव्यम्'&apos; इति अवश्यंभाविनी बुद्धि:धिः स्यात् ; तद-

पेक्षया सः अधिक्रियते इति तं प्रति कर्माणि
 
संभवन्ति ।

स च अविद्वान्, '&apos;उभौ तौ न विजानीत:'&apos; इति वच-

नात्, विशेषितस्य च विदुषः कर्माक्षेपवचनाच्'&apos;कथं स

पुरुष:'षः&apos; इति । तस्मात् विशेषितस्य अविक्रियात्मदर्शिनः

विदुषः मुमुक्षोश्च सर्वकर्मसंन्यासे एव अधिकार:रः । अत एव
 
</p>
</page>