Proofing

This page has been fully proofread once and needs a second look.

<page>
<ignore>
द्वितीयोऽध्यायः ।
 
३५
 
</ignore>
<p>
केन प्रकारेण सः विद्वान् पुरुषः अधिकृतः हन्ति हननक्रियां

करोति, कथं वा घातयति हन्तारं प्रयोजयति । न कथंचित्

कंचित् हन्ति, न कथंचित् कंचित् घातयति इति उभयत्र

आक्षेप एवार्थः, प्रश्नार्थासंभवात् । हेत्वर्थस्य च अविक्रियत्वस्य

तुल्यत्वात् विदुषः सर्वकर्मप्रतिषेध एव प्रकरणार्थ:थः अभिप्रेतो

भगवंता । हन्तेस्तु आक्षेप:पः उदाहरणार्थत्वेन कथितः ॥
 
</p>
<p merge-next="true">
विदुषः कं कर्मासंभवहेतुविशेषं पश्यन् कर्माण्याक्षि-

पति भगवान् ' &apos;कथं स पुरुष:'षः&apos; इति । ननु उक्त एवात्मनः

अविक्रियत्वं सर्वकर्मासंभवकारणविशेषः । सत्यमुक्तः । न

तु सः कारणविशेषः, अन्यत्वात् विदुषः अविक्रिया-

दात्मनः । न हि अविक्रियं स्थाणुं विदितवत:तः कर्म न

संभवति इति चेत्, न ; विदुषः आत्मत्वात् । न देहादिसं-

घातस्य विद्वत्ता । अत:तः पारिशेष्यात् असंहत:तः आत्मा विद्वान्

अविक्रियः इति तस्य विदुषः कर्मासंभवात् आक्षेपो युक्तः
'

&apos;
कथं स पुरुष:'षः&apos; इति । यथा बुद्ध्याद्याहृतस्य शब्दाद्यर्थस्य

अविक्रिय एव सन् बुद्धिवृत्त्यविवेकविज्ञानेन अविद्यया उप-

लब्धा आत्मा कल्प्यते, एवमेव आत्मानात्मविवेकज्ञानेन

बुद्धिवृत्त्या विद्यया असत्यरूपयैव परमार्थतः, अविक्रिय
अविक्रिय
एव आत्मा विद्वानुच्यते । विदुषः कर्मासंभववचनात् या
 
नि</p>
</page>