Proofing

This page has been fully proofread once and needs a second look.

<page>
<ignore>
३४
 
श्रीमद्भगवद्गीताभाष्ये
 
</ignore>
<p>
वृद्धिलक्षणा विक्रिया प्रतिषिध्यते—- पुराण इति । यो हि

अवयवागमेन उपचीयते स वर्धते अभिनव इति च उच्यते ।

अयं तु आत्मा निरवयवत्वात् पुरापि नव एवेति पुराण:णः ;

न वर्धते इत्यर्थः । तथा न हन्यते । हन्तिः अत्र विपरि-

णामार्थे द्रष्टव्यः अपुनरुक्ततायै । न विपरिणम्यते इत्यर्थः ।

हन्यमाने विपरिणम्यमानेऽपि शरीरे । अस्मिन् मन्त्रे षड्

भावविकारा लौकिकवस्तुविक्रिया आत्मनि प्रतिषिध्यन्ते ।

सर्वप्रकारविक्रियारहित आत्मा इति वाक्यार्थः । यस्मादेवं

तस्मात् '&apos; उभौ तौ न विजानीत:'तः&apos; इति पूर्वेण मन्त्रेण

अस्य संबन्धः ॥
 
'
</p>
<p>&apos;
य एनं वेत्ति हन्तारम्'&apos; इत्यनेन मन्त्रेण हननक्रियाया:
याः
कर्ता कर्म च न भवति इति प्रतिज्ञाय, '&apos;न जायते'&apos; इत्यनेन

अविक्रियत्वं हेतुमुक्त्वा प्रतिज्ञातार्थमुपसंहरति —
</p>
<verse>
वेदाविनाशिनं नित्यं य एनमजमव्ययम् ।

कथं स पुरुषः पार्थ कं घातयति हन्ति कम् ॥
 
<fix> २१ ॥</fix></verse>
<p merge-next="true">
वेद विजानाति अविनाशिनम् अन्त्यभावविकाररहितं

नित्यं विपरिणामरहितं यो वेद इति संबन्धः । एनं पूर्वेण मन्त्रे-

णो क्तलक्षणम् अजं जन्मरहितम् अव्ययम् अपक्षयरहितं कथं
 
</p>
</page>