Proofing

This page has not been fully proofread.

३४
 
श्रीमद्भगवद्गीताभाष्ये
 
वृद्धिलक्षणा विक्रिया प्रतिषिध्यते—- पुराण इति । यो हि
अवयवागमेन उपचीयते स वर्धते अभिनव इति च उच्यते ।
अयं तु आत्मा निरवयवत्वात् पुरापि नव एवेति पुराण: ;
न वर्धते इत्यर्थः । तथा न हन्यते । हन्तिः अत्र विपरि-
णामार्थे द्रष्टव्यः अपुनरुक्ततायै । न विपरिणम्यते इत्यर्थः ।
हन्यमाने विपरिणम्यमानेऽपि शरीरे । अस्मिन् मन्त्रे षड्
भावविकारा लौकिकवस्तुविक्रिया आत्मनि प्रतिषिध्यन्ते ।
सर्वप्रकारविक्रियारहित आत्मा इति वाक्यार्थः । यस्मादेवं
तस्मात् ' उभौ तौ न विजानीत:' इति पूर्वेण मन्त्रेण
अस्य संबन्धः ॥
 
' य एनं वेत्ति हन्तारम्' इत्यनेन मन्त्रेण हननक्रियाया:
कर्ता कर्म च न भवति इति प्रतिज्ञाय, 'न जायते' इत्यनेन
अविक्रियत्वं हेतुमुक्त्वा प्रतिज्ञातार्थमुपसंहरति —
वेदाविनाशिनं नित्यं य एनमजमव्ययम् ।
कथं स पुरुषः पार्थ कं घातयति हन्ति कम् ॥
 
वेद विजानाति अविनाशिनम् अन्त्यभावविकाररहितं
नित्यं विपरिणामरहितं यो वेद इति संबन्धः । एनं पूर्वेण मत्रे-
णो लक्षणम् अजं जन्मरहितम् अव्ययम् अपक्षयरहितं कथं