Proofing

This page has been fully proofread once and needs a second look.

<page>
<ignore>
द्वितीयोऽध्यायः ।
 
३३
 
</ignore>
<p merge-next="true">
न जायते न उत्पद्यते, जनिलक्षणा वस्तुविक्रिया न आ-

त्मनो विद्यते इत्यर्थः । तथा न म्रियते वा । वाशब्दः चार्थे ।

न म्रियते च इति अन्त्या विनाशलक्षणा विक्रिया प्रतिषि-

ध्यते । कदाचिच्छन्ब्दः सर्वविक्रियाप्रतिषेधैः संबध्यते—

न कदाचित् जायते, न कदाचित् म्रियते, इत्येवम् । यस्मात्

अयम् आत्मा भूत्वा भवनक्रियामनुभूय पश्चात् अभविता

अभावं गन्ता न भूयः पुनः, तस्मात् न म्रियते । यो हि

भूत्वा न भविता स म्रियत इत्युच्यते लोके । वाश-

ब्दात् नशब्दाच्च अयमात्मा अभूत्वा वा भविता देह-

वत् न भूयः । तस्मात् न जायते । यो हि अभूत्वा भविता

स जायत इत्युच्यते । नैवमात्मा । अतो न जायते ।

यस्मादेवं तस्मात् अज:जः, यस्मात् न म्रियते तस्मात् नित्य-

श् । यद्यपि आद्यन्तयोर्विक्रिययोः प्रतिषेधे सर्वा विक्रिया:
याः
प्रतिषिद्धा भवन्ति, तथापि मध्यभाविनीनां विक्रियाणां स्व-

शब्दैरेव प्रतिषेधः कर्तव्यः अनुक्तानामपि यौवनादिसमस्तवि-

क्रियाणां प्रतिषेधो यथा स्यात् इत्याह - शाश्वत इत्यादिना ।

शाश्वत इति अपक्षयलक्षणा विक्रिया प्रतिषिध्यते । शश्वद्भवः

शाश्वतः । न अपक्षीयते स्वरूपेण, निरवयवत्वात् । नापि

गुणक्षयेण अपक्षयः, निर्गुणत्वात् । अपक्षयविपरीतापि
 
</p>
<ignore>
S. B. 3
 
</ignore>
</page>