Proofing

This page has been fully proofread once and needs a second look.

<page>
<ignore>
३२
 
श्रीमद्भगवद्गीताभाष्ये
 
</ignore>
<p>
यत्तु मन्यसे '&apos;युद्धे भीष्मादयो मया हन्यन्ते ' '&apos; &apos; अहमेव

तेषां हन्ता'&apos; इति, एषा बुद्धिः मृषैव ते । कथम् ? --
 
-</p>
<verse>
य एनं वेत्ति हन्तारं यश्चैनं मन्यते हतम् ।

उभौ तौ न विजानीतो नायं हन्ति न हन्यते ॥
 
<fix> १९ ॥</fix></verse>
<p>
य एनं प्रकृतं देहिनं वेत्ति विजानाति हन्तारं हनन-

क्रियायाः कर्तारं यश्च एनम् अन्यो मन्यते हतं देहहननेन
'

&apos;
हतः अहम्'&apos; इति हननक्रियायाः <error>कू</error><fix>क</fix>र्मभूतम्, तौ उभौ न

विजानीतः न ज्ञातवन्तौ अविवेकेन आत्मानम् । '&apos;हता
अहम्' '

अहम्&apos; &apos;
हतः अस्मि अहम्'&apos; इति देहहननेन आत्मानमहं-

प्रत्ययविषयं यौ विजानीतः तौ आत्मस्वरूपानभिज्ञौ इत्यर्थः ।

यस्मात् न अयम् <error>अ</error><fix>आ</fix>त्मा हन्ति न हननक्रियायाः कर्ता भवति,

न च हन्यते न च कर्म भवतीत्यर्थः, अविक्रियत्वात् ॥
 
</p>
<p>
कथमविक्रय आत्मेति द्वितीयो मन्त्र:-
 
-
 
रः---</p>
<verse>
न जायते म्रियते वा कदाचि-

न्नायं भूत्वाभविता वा न भूयः ।

अजो नित्यः शाश्वतोऽयं पुराणो

न हन्यते हन्यमाने शरीरे ॥ २० ॥
 
</verse>
</page>