2026-05-03 04:19:30 by ambuda-bot
This page has not been fully proofread.
३२
श्रीमद्भगवद्गीताभाष्ये
यत्तु मन्यसे 'युद्धे भीष्मादयो मया हन्यन्ते ' ' अहमेव
तेषां हन्ता' इति, एषा बुद्धिः मृषैव ते । कथम् ? --
य एनं वेत्ति हन्तारं यश्चैनं मन्यते हतम् ।
उभौ तौ न विजानीतो नायं हन्ति न हन्यते ॥
य एनं प्रकृतं देहिनं वेत्ति विजानाति हन्तारं हनन-
क्रियायाः कर्तारं यश्च एनम् अन्यो मन्यते हतं देहहननेन
'हतः अहम्' इति हननक्रियायाः कूर्मभूतम्, तौ उभौ न
विजानीतः न ज्ञातवन्तौ अविवेकेन आत्मानम् । 'हता
अहम्' 'हतः अस्मि अहम्' इति देहहननेन आत्मानमहं-
प्रत्ययविषयं यौ विजानीतः तौ आत्मस्वरूपानभिज्ञौ इत्यर्थः ।
यस्मात् न अयम् अत्मा हन्ति न हननक्रियायाः कर्ता भवति,
न च हन्यते न च कर्म भवतीत्यर्थः, अविक्रियत्वात् ॥
कथमविक्रय आत्मेति द्वितीयो मन्त्र:-
-
न जायते म्रियते वा कदाचि-
न्नायं भूत्वाभविता वा न भूयः ।
अजो नित्यः शाश्वतोऽयं पुराणो
न हन्यते हन्यमाने शरीरे ॥ २० ॥