Proofing

This page has been fully proofread once and needs a second look.

<page>
<ignore>द्वितीयोऽध्यायः । ३१</ignore>

'नित्यस्य' 'अनाशिनः' इत्याह । अप्रमेयस्य न प्रमेयस्य
प्रत्यक्षादिप्रमाणैः अपरिच्छेद्यस्येत्यर्थः ॥

ननु आगमेन आत्मा परिच्छिद्यते, प्रत्यक्षादिना च
पूर्वम् । न; आत्मनः स्वतः सिद्धत्वात् । सिद्धे हि आत्मनि
प्रमातरि प्रमित्सोः प्रमाणान्वेषणा भवति । न हि पूर्वम्
'इत्थमहम्' इति आत्मानमप्रमाय पश्चात् प्रमेयपरिच्छेदाय
प्रवर्तते । न हि आत्मा नाम कस्यचित् अप्रसिद्धो भवति ।
शास्त्रं तु अन्त्यं प्रमाणम् अतद्धर्माध्यारोपणमात्र निवर्तकत्वेन
प्रमाणत्वम् आत्मनः प्रतिपद्यते, न तु अज्ञातार्थज्ञापकत्वेन ।
तथा च श्रुतिः - ' यत्साक्षादपरोक्षाद्ब्रह्म य आत्मा सर्वा-
न्तरः' इति ॥

यस्मादेवं नित्यः अविक्रियश्च आत्मा तस्मात् युध्यस्व,
युद्धात् उपरमं मा कार्षीः इत्यर्थः ॥

न हि अत्र युद्धकर्तव्यता विधीयते, युद्धे प्रवृत्त एव हि
असौ शोकमोहप्रतिबद्धः तूष्णीमास्ते । अतः तस्य प्रतिबन्धा-
पनयनमात्रं भगवता क्रियते । तस्मात् 'युध्यस्व' इति अनु-
वादमात्रम्, न विधिः ॥

शोकमोहादिसंसारकारणनिवृत्त्यर्थेथं गीताशास्त्रम्, न प्रवर्त-
कम् इत्येतस्यार्थस्य साक्षिभूते ऋचौ आनिनाय भगवान् ।

</page>