Proofing

This page has been fully proofread once and needs a second look.

<page>
<ignore>
द्वितीयोऽध्यायः ।

३१

</ignore>

नित्यस्य' '' 'अनाशिन: 'नः' इत्याह । अप्रमेयस्य न प्रमेयस्य

प्रत्यक्षादिप्रमाणैः अपरिच्छेद्यस्येत्यर्थः ॥

ननु आगमेन आत्मा परिच्छिद्यते, प्रत्यक्षादिना च

पूर्वम् । न; आत्मनः स्वतः सिद्धत्वात् । सिद्धे हि आत्मनि

प्रमातरि प्रभिमित्सोः प्रमाणान्वेषणा भवति । न हि पूर्वम्

इत्थमहम्'' इति आत्मानमप्रमाय पश्चात् प्रमेयपरिच्छेदाय

प्रवर्तते । न हि आत्मा नाम कस्यचित् अप्रसिद्धो भवति ।

शास्त्रं तु अन्त्यं प्रमाणम् अतद्धर्माध्यारोपणमात्र निवर्तकत्वेन

प्रमाणत्वम् आत्मनः प्रतिपद्यते, न तु अज्ञातार्थज्ञापकत्वेन ।

तथा च श्रुतिः - '' यत्साक्षादपरोक्षाद्ब्रह्म य आत्मा सर्वा-

न्तर:'रः' इति ॥

यस्मादेवं नित्य:यः अविक्रियश्च आत्मा तस्मात् युध्यस्व,

युद्धात् उपरमं मा कार्षीः इत्यर्थः ॥

न हि अत्र युद्धकर्तव्यता विधीयते, युद्धे प्रवृत्त एव हि

असौ शोकमोहप्रतिबद्धः तूष्णीमास्ते । अतः तस्य प्रतिबन्धा-

पनयनमात्रं भगवता क्रियते । तस्मात् ''युध्यस्व'' इति अनु-

वादमात्रम्, न विधिः ॥

शोकमोहादिसंसारकारणनिवृत्त्यर्थे गीताशास्त्रम्, न प्रवर्त-

कम् इत्येतस्यार्थस्य साक्षिभूते ऋचौ आनिनाय भगवान् ।

</page>