2026-05-03 04:19:29 by ambuda-bot
This page has not been fully proofread.
द्वितीयोऽध्यायः ।
३१
' नित्यस्य' 'अनाशिन: ' इत्याह । अप्रमेयस्य न प्रमेयस्य
प्रत्यक्षादिप्रमाणैः अपरिच्छेद्यस्येत्यर्थः ॥
ननु आगमेन आत्मा परिच्छिद्यते, प्रत्यक्षादिना च
पूर्वम् । न; आत्मनः स्वतः सिद्धत्वात् । सिद्धे हि आत्मनि
प्रमातरि प्रभित्सोः प्रमाणान्वेषणा भवति । न हि पूर्वम्
' इत्थमहम्' इति आत्मानमप्रमाय पश्चात् प्रमेयपरिच्छेदाय
प्रवर्तते । न हि आत्मा नाम कस्यचित् अप्रसिद्धो भवति ।
शास्त्रं तु अन्त्यं प्रमाणम् अतद्धर्माध्यारोपणमात्र निवर्तकत्वेन
प्रमाणत्वम् आत्मनः प्रतिपद्यते, न तु अज्ञातार्थज्ञापकत्वेन ।
तथा च श्रुतिः - ' यत्साक्षादपरोक्षाद्ब्रह्म य आत्मा सर्वा-
न्तर:' इति ॥
यस्मादेवं नित्य: अविक्रियश्च आत्मा तस्मात् युध्यस्व,
युद्धात् उपरमं मा कार्षीः इत्यर्थः ॥
न हि अत्र युद्धकर्तव्यता विधीयते, युद्धे प्रवृत्त एव हि
असौ शोकमोहप्रतिबद्धः तूष्णीमास्ते । अतः तस्य प्रतिबन्धा-
पनयनमात्रं भगवता क्रियते । तस्मात् 'युध्यस्व' इति अनु-
वादमात्रम्, न विधिः ॥
शोकमोहादिसंसारकारणनिवृत्त्यर्थे गीताशास्त्रम्, न प्रवर्त-
कम् इत्येतस्यार्थस्य साक्षिभूते ऋचौ आनिनाय भगवान् ।