2026-05-03 04:19:29 by ambuda-bot
This page has not been fully proofread.
३०
श्रीमद्भगवद्गीताभाष्ये
यथा देवदत्तो धनहान्या व्येति, न तु एवं ब्रह्म व्येति ।
अत: अव्ययस्य अस्य ब्रह्मणः विनाशं न कश्चित् कर्तु-
मर्हति, न कश्चित् अत्मानं विनाशयितुं शक्नोति ईश्वरोऽपि ।
आत्मा हि ब्रह्म, स्वात्मनि च क्रियाविरोधात् ॥
किं पुनस्तदसत्, यत्स्वात्मसत्तां व्यभिचरतीति, उच्यते-
अन्तवन्त इमे देहा नित्यस्योक्ताः शरीरिणः ।
अनाशिनोऽप्रमेयस्य तस्माद्युध्यस्व भारत ।
अन्तः विनाशः विद्यते येषां ते अन्तवन्तः । यथा मृगतृ-
ष्णिकादौ सद्बुद्धिः अनुवृत्ता प्रमाणनिरूपणान्ते विच्छिद्यते,
स तस्य अन्तः; तथा इमे देहाः स्वप्नमायादेहादिवच्च अ-
न्तवन्तः नित्यस्य शरीरिणः शरीरवतः अनाशिनः अप्रमेयस्य
आत्मन: अन्तवन्त इति उक्ता: विवेकिभिरित्यर्थः । ' नित्य-
स्य ''अनाशिन: ' इति न पुनरुक्तम्; नित्यत्वस्य द्विविध-
त्वात् लोके, नाशस्य च । यथा देहो भस्मीभूतः अदर्शनं गतो
नष्ट उच्यते । विद्यमानोऽपि यथा अन्यथा परिणतो व्या-
ध्यादियुक्तो जातो नष्ट उच्यते । तत्र ' नित्यस्य ' ' अनाशिन: '
इति द्विविधेनापि नाशेन असंबन्धः अस्येत्यर्थः । अन्यथा
पृथिव्यादिवदपि नित्यत्वं स्यात् आत्मनः ; तत् मा भूदिति