Proofing

This page has not been fully proofread.

.
 
द्वितीयोऽध्यायः ।
 
२९
 
एवम् आत्मानात्मनोः सदसतो: उभयोरपि दृष्टः उप-
लब्धः अन्तो निर्णयः सत् सदेव असत् असदेवेति तु अन-
योः यथोक्तयोः तत्त्वदर्शिभिः । तदिति सर्वनाम, सर्व च
ब्रह्म, तस्य नाम तदिति, तद्भावः तत्त्वम्, ब्रह्मणो याथा-
 
यम् । तत् द्रष्टुं शीलं येषां ते तत्त्वदर्शिनः, तैः तत्त्वदर्शि-
भि: । त्वमपि तत्त्वदर्शिनां दृष्टिमाश्रित्य शोकं मोहं च हित्वा
शीतोष्णादीनि नियतानियतरूपाणि द्वन्द्वानि ' विकारोऽय-
मन्नेव मरीचिजलवन्मिथ्यावभासते ' इति मनसि निश्चित्य
तितिक्षस्व इत्यभिप्राय: ॥
 
किं पुनस्तत्, यत् सदेव सर्वदा इति ; उच्यते—
अविनाशि तु तद्विद्धि येन सर्वमिदं ततम् ।
विनाशमव्ययस्यास्य न कश्चित्कर्तुमर्हति ॥ १७ ॥
 
अविनाशि न विनष्टुं शीलं यस्येति । तुशब्दः असतो
विशेषणार्थः । तत् विद्धि विजानीहि । किम् ? येन सर्वम् इदं
जगत् ततं व्याप्तं सदाख्येन ब्रह्मणा साकाशम्, आकाशेनेव
घटादयः । विनाशम् अदर्शनम् अभावम् । अव्ययस्य न व्येति
उपचयापचयौ न याति इति अव्ययं तस्य अव्ययस्य । नैतत्
सदाख्यं ब्रह्म स्वेन रूपेण व्येति व्यभिचरति, निरवयव-
त्वात् देहादिवत् । नाप्यात्मीयेन, आत्मीयाभावात् ।
 
"