2026-05-03 17:28:40 by akprasad
This page has been fully proofread once and needs a second look.
<page>
<ignore>२८
श्रीमद्भगवद्गीताभाष्ये
</ignore>

चरति । तथा च दर्शितम् । न तु सद्बुद्धिः । तस्मात् घटा-
दिबुद्धिविषयः असन्, व्यभिचारात्; न तु सद्गुबुद्धिविषयः,
अव्यभिचारात् ॥

घटे विनष्टे घटबुद्धौ व्यभिचरन्त्यां सद्बुद्धिरपि व्यभिच-
रतीति चेत् , न; पटादावपि सद्बुद्धिदर्शनात् । विशेषणवि-
षयैव सा सद्बुद्धिः ॥

सद्बुद्धिवत् घटबुद्धिरपि घटान्तरे दृश्यत इति चेत् , न;
पटादौ अदर्शनात् ॥

सद्बुद्धिरपि नष्टे घटे न दृश्यत इति चेत्, न; विशेष्या-
भावात् । सद्गुबुद्धिः विशेषणविषया सती विशेष्याभावे विशे-
षणानुपपत्तौ किंविषया स्यात् ?" न तु पुनः समुद्बुद्धेः विषया-
भावात् ॥

एकाधिकरणत्वं घटादिविशेष्याभावे न युक्तमिति चेत् ,
न;'<quote>'इदमुदकम् ''</quote> इति मरीच्यादौ अन्यतराभावेऽपि सामा-
नाधिकरण्यदर्शनात् ॥

तस्माद्देहादेः द्वन्द्वस्य च सकारणस्य असतो न विद्यते
भाव इति । तथा सतश्च आत्मनः अभावः अविद्यमानता
न विद्यते, सर्वत्र अव्यभिचारात् इति अवोचाम ॥

</page>
<ignore>२८

चरति । तथा च दर्शितम् । न तु सद्बुद्धिः । तस्मात् घटा-
दिबुद्धिविषयः असन्, व्यभिचारात्; न तु सद्
अव्यभिचारात् ॥

घटे विनष्टे घटबुद्धौ व्यभिचरन्त्यां सद्बुद्धिरपि व्यभिच-
रतीति चेत् , न; पटादावपि सद्बुद्धिदर्शनात् । विशेषणवि-
षयैव सा सद्बुद्धिः ॥

सद्बुद्धिवत् घटबुद्धिरपि घटान्तरे दृश्यत इति चेत् , न;
पटादौ अदर्शनात् ॥

सद्बुद्धिरपि नष्टे घटे न दृश्यत इति चेत्, न; विशेष्या-
भावात् । सद्
षणानुपपत्तौ किंविषया स्यात् ?
भावात् ॥

एकाधिकरणत्वं घटादिविशेष्याभावे न युक्तमिति चेत् ,
न;
नाधिकरण्यदर्शनात् ॥

तस्माद्देहादेः द्वन्द्वस्य च सकारणस्य असतो न विद्यते
भाव इति । तथा सतश्च आत्मनः अभावः अविद्यमानता
न विद्यते, सर्वत्र अव्यभिचारात् इति अवोचाम ॥
</page>