Proofing

This page has been fully proofread once and needs a second look.

<page>
<p>
द्वितीयोऽध्यायः ।
 
</p>
<ignore>
२७
 
</ignore>
<p>
इतश्च शोकमोहौ अकृत्वा शीतोष्णादिसहनं युक्तम्,
,
यस्मात्—
 
</p>
<verse>
नासतो विद्यते भावो नाभावो विद्यते सतः ।

उभयोरपि दृष्टोऽन्तस्त्वनयोस्तत्त्वदर्शिभिः ॥
 
<fix> १६ ॥</fix></verse>
<p>
न असत:तः अविद्यमानस्य शीतोष्णादेः सकारणस्य न

विद्यते नास्ति भावो भवनम् अस्तिता ॥
 

न हि शीतोष्णादि सकारणं प्रमाणैर्निरूप्यमाणं वस्तुसद्भ-

वति । विकारो हि सः, विकारश्च व्यभिचरति । यथा घटा-

दिसंस्थानं चक्षुषा निरूप्यमाणं मृद्वयतिरेकेणानुपलब्धेरसत्,
,
तथा सर्वो विकारः कारणव्यतिरेकेणानुपलब्धेरसन् । जन्म-

प्रध्वंसाभ्यां प्रागूर्ध्वं च अनुपलब्धेः कार्यस्य घटादेः मृदादि-

कारणस्य च तत्कारणव्यतिरेकेणानुपलब्धेरस त्त्वम् ॥
 
</p>
<p>
तदसत्त्वे सर्वाभावप्रसङ्ग इति चेत्, न ; सर्वत्र बुद्धिद्वयो-

पलब्धेः, सद्बुद्धिरसद्बुद्धिरिति । यद्विषया बुद्धिर्न व्यभिचरति,
तत् सत्

तत् सत्
; यद्विषया व्यभिचरति, तदसत्; इति सदसद्वि-

भागे बुद्धितन्त्रे स्थिते, सर्वत्र द्वे बुद्धी सर्वैरुपलभ्येते समा-

नाधिकरणे न नीलोत्पलवत्, सन् घटः, सन् पटः, सन्

हस्ती इति । एवं सर्वत्र । तयोर्बुद्ध्योः घटादिबुद्धिः व्यभि-
 
</p>
</page>