2026-05-03 04:19:28 by ambuda-bot
This page has not been fully proofread.
द्वितीयोऽध्यायः ।
२७
इतश्च शोकमोहौ अकृत्वा शीतोष्णादिसहनं युक्तम्,
यस्मात्—
नासतो विद्यते भावो नाभावो विद्यते सतः ।
उभयोरपि दृष्टोऽन्तस्त्वनयोस्तत्त्वदर्शिभिः ॥
न असत: अविद्यमानस्य शीतोष्णादेः सकारणस्य न
विद्यते नास्ति भावो भवनम् अस्तिता ॥
न हि शीतोष्णादि सकारणं प्रमाणैर्निरूप्यमाणं वस्तुसद्भ-
वति । विकारो हि सः, विकारश्च व्यभिचरति । यथा घटा-
दिसंस्थानं चक्षुषा निरूप्यमाणं मृद्वयतिरेकेणानुपलब्धेरसत्,
तथा सर्वो विकारः कारणव्यतिरेकेणानुपलब्धेरसन् । जन्म-
प्रध्वंसाभ्यां प्रागूर्ध्वं च अनुपलब्धेः कार्यस्य घटादेः मृदादि-
कारणस्य च तत्कारणव्यतिरेकेणानुपलब्धेरस त्वम् ॥
तदसत्त्वे सर्वाभावप्रसङ्ग इति चेत्, न ; सर्वत्र बुद्धिद्वयो-
पलब्धेः, सद्बुद्धिरसद्बुद्धिरिति । यद्विषया बुद्धिर्न व्यभिचरति,
तत् सत्; यद्विषया व्यभिचरति, तदसत्; इति सदसद्वि-
भागे बुद्धितन्त्रे स्थिते, सर्वत्र द्वे बुद्धी सर्वैरुपलभ्येते समा-
नाधिकरणे न नीलोत्पलवत्, सन् घटः सन् पटः, सन्
हस्ती इति । एवं सर्वत्र । तयोर्बुद्धयोः घटादिबुद्धिः व्यभि-